पूर्वम्: ६।४।३५
अनन्तरम्: ६।४।३७
 
सूत्रम्
हन्तेर्जः॥ ६।४।३६
काशिका-वृत्तिः
हन्तेर्जः ६।४।३६

हन्तेर्धातोः जः इत्ययम् आदेशो भवति हौ परत। जहि शत्रून्।
लघु-सिद्धान्त-कौमुदी
हन्तेर्जः ५६३, ६।४।३६

हौ परे॥
बाल-मनोरमा
हन्तेर्जः २६२, ६।४।३६

हन्तेर्जः। "शा हौ इत्यतो हौ इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे-- हौ परे इति। कृते जादेशे "अतो हे"रिति हेर्लुकमाशङ्क्य आह--आभीयतयेति। जहीति। हतात् हतम्। हत। हनानीति। आटः पित्त्वेन हित्त्वाऽभावान्नोपधालोप इति भावः। अहन्निति। लङस्तिपि "इतश्चे"ति इकारलोपे "संयोगान्तस्ये"ति तकारलोपः। न्याय्यत्वाद्धल्ङ्यादिलोपो वा। अहनमिति। अहन्व। अहन्म। झलादिपरकत्वाऽभावान्नोपधादीर्घः। विधिलिङि हन्यात् हन्यताम् इत्यादि। आशीर्लिङि वधादेशं वक्ष्यन्नाह-

तत्त्व-बोधिनी
हन्तेर्जः २३०, ६।४।३६

आभीयतयेति। सन्निपातपरिभाषयाऽपि हेर्लुङ् नेति वक्तुं शक्यमिति केचित्। तन्मन्दम्। "अतो हे" रित्यारम्भसामथ्र्यात्तस्या अप्रवृत्तेरिति नव्याः।